Sukta 9.27
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते । पवित्रे दक्षसाधनः ॥
ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते । प॒वित्रे॑ दक्ष॒साध॑नः ॥
eṣá índrāya vāyáve svàrjit pári ṣicyate | pavítre dakṣasā́dhanaḥ ||
This one is poured around in the purifier for Indra and for Vāyu, a winner of the luminous world, accomplishing power and right skill.
ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ । प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥एषः । इन्द्राय । वायवे । स्वःजित् । परि । सिच्यते । पवित्रे । दक्षसाधनः ॥eṣaḥ | indrāya | vāyave | svaḥ-jit | pari | sicyate | pavitre | dakṣa-sādhanaḥ