Sukta 9.24
इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि । अरमिन्द्रस्य धाम्ने ॥
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
índo yád ádribhiḥ sutáḥ pavítraṃ paridhā́vasi | arám índrasya dhā́mne ||
O Indu, when pressed by the stones, thou runnest around the filter; thou becomest fit and ready for Indra’s dwelling—prepared to establish his power in us.
इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि । अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥इन्दो इति । यत् । अद्रिभिः । सुतः । पवित्रम् । परिधावसि । अरम् । इन्द्रस्य । धाम्ने ॥indo iti | yat | adri-bhiḥ | sutaḥ | pavitram | pari-dhāvasi | aram | indrasya | dhāmne