Sukta 9.24
शुचिः पावक उच्यते सोमः सुतस्य मध्वः । देवावीरघशंसहा ॥
शुचि॑: पाव॒क उ॑च्यते॒ सोम॑: सु॒तस्य॒ मध्व॑: । दे॒वा॒वीर॑घशंस॒हा ॥
śúciḥ pāvaká ucyate sómaḥ sutásya mádhvaḥ | devāvī́r aghaśaṃsahā́ ||
Pure and flaming-clear is Soma called, of the pressed sweetness; a hero for the gods, slayer of the ill-speaking darkness—he guards the divine life in us.
शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः॑ । सु॒तस्य॑ । मध्वः॑ । दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥शुचिः । पावकः । उच्यते । सोमः । सुतस्य । मध्वः । देवअवीः । अघशंसहा ॥śuciḥ | pāvakaḥ | ucyate | somaḥ | sutasya | madhvaḥ | deva-avīḥ | aghaśaṃsa-hā