Sukta 9.23
अभि सोमास आयवः पवन्ते मद्यं मदम् । अभि कोशं मधुश्चुतम् ॥
अ॒भि सोमा॑स आ॒यव॒: पव॑न्ते॒ मद्यं॒ मद॑म् । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
abhí somāsa āyávaḥ pávante mádyaṃ mádam | abhí kóśaṃ madhuścútam ||
The Somas, the aspiring powers, purify themselves and flow toward the rapture that is to be drunk; they flow toward the vessel that drips honey—toward the heart-cup of delight.
अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् । अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । अभि । कोशम् । मधुश्चुतम् ॥abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | abhi | kośam | madhu-ścutam