Sukta 9.23
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । रुचे जनन्त सूर्यम् ॥
अनु॑ प्र॒त्नास॑ आ॒यव॑: प॒दं नवी॑यो अक्रमुः । रु॒चे ज॑नन्त॒ सूर्य॑म् ॥
ánu pratnā́sa āyávaḥ padáṃ návīyo akramuḥ | rucé jánanta sū́ryam ||
Following the ancient ones, the living seekers have stepped to a newer station; out of luminous radiance they bring forth the Sun—an awakened truth-light within.
अनु॑ । प्र॒त्नासः॑ । आ॒यवः॑ । प॒दम् । नवी॑यः । अ॒क्र॒मुः॒ । रु॒चे । ज॒न॒न्त॒ । सूर्य॑म् ॥अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः । रुचे । जनन्त । सूर्यम् ॥anu | pratnāsaḥ | āyavaḥ | padam | navīyaḥ | akramuḥ | ruce | jananta | sūryam