Sukta 9.23
सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् । सुवीरो अभिशस्तिपाः ॥
सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् । सु॒वीरो॑ अभिशस्ति॒पाः ॥
sómo arṣati dharṇasír dádhāna indríyaṃ rásam | suvī́ro abhiśastipā́ḥ ||
Soma streams forth, a foundation of support, bearing the force-essence of Indra—powerful taste of being. He brings noble strength (good heroism) and guards us from hostile word and assault.
सोमः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा॑नः । इ॒न्द्रि॒यम् । रस॑म् । सु॒ऽवीरः॑ । अ॒भि॒श॒स्ति॒ऽपाः ॥सोमः । अर्षति । धर्णसिः । दधानः । इन्द्रियम् । रसम् । सुवीरः । अभिशस्तिपाः ॥somaḥ | arṣati | dharṇasiḥ | dadhānaḥ | indriyam | rasam | su-vīraḥ | abhiśasti-pāḥ