Sukta 9.21
एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । मत्सरासः स्वर्विदः ॥
ए॒ते धा॑व॒न्तीन्द॑व॒: सोमा॒ इन्द्रा॑य॒ घृष्व॑यः । म॒त्स॒रास॑: स्व॒र्विद॑: ॥
eté dhā́vantī́ndavaḥ sómā índrāya ghṛ́ṣvayaḥ | matsarā́saḥ svarvídaḥ ||
These Soma-drops run forth for Indra, ardent and pressing on; they are ecstasies that intoxicate the soul into power, finders of the Sun-world—discoverers of luminous knowledge in us.
ए॒ते । धा॒व॒न्ति॒ । इन्द॑वः । सोमाः॑ । इन्द्रा॑य । घृष्व॑यः । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥एते । धावन्ति । इन्दवः । सोमाः । इन्द्राय । घृष्वयः । मत्सरासः । स्वःविदः ॥ete | dhāvanti | indavaḥ | somāḥ | indrāya | ghṛṣvayaḥ | matsarāsaḥ | svaḥ-vidaḥ