Sukta 9.20
स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥
स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । सोम॑श्च॒मूषु॑ सीदति ॥
sá váhnir apsú duṣṭáro mṛ́jyamāno gábhastyoḥ | sómaś camū́ṣu sīdati ||
That bearer-force, hard to obstruct in the waters, being cleansed in the hands, Soma takes his seat in the bowls—establishing himself in the prepared vessels of the being for the work of the sacrifice within.
सः । वह्निः॑ । अ॒प्ऽसु । दु॒स्तरः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ॥सः । वह्निः । अप्सु । दुस्तरः । मृज्यमानः । गभस्त्योः । सोमः । चमूषु । सीदति ॥saḥ | vahniḥ | ap-su | dustaraḥ | mṛjyamānaḥ | gabhastyoḥ | somaḥ | camūṣu | sīdati