Sukta 9.20
क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम् ॥
क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
krīḷúrmakhó ná maṃhayúḥ pavítraṃ soma gacchasi | dádhat stotré suvī́ryam ||
Sporting in thy might, eager in the sacrifice, thou goest, O Soma, to the purifier; placing in the hymn a heroic power, thou makest the word a force of victory in the inner battle.
क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥क्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सुवीर्यम् ॥krīḷuḥ | makhaḥ | na | maṃhayuḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam