Sukta 9.2
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे ॥
गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युव॑: । याभि॒र्मदा॑य॒ शुम्भ॑से ॥
gíras ta inda ójasā marmṛ́jyante apasyúvaḥ | yā́bhir mádāya śúmbhase ||
Thy words, O Indu, are cleansed by force—those eager for the work; by them thou art adorned for ecstasy: mantra purified into power becomes the ornament of inner rapture.
गिरः॑ । ते॒ । इ॒न्दो॒ इति॑ । ओज॑सा । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ । याभिः । मदा॑य । शुम्भ॑से ॥गिरः । ते । इन्दो इति । ओजसा । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भसे ॥giraḥ | te | indo iti | ojasā | marmṛjyante | apasyuvaḥ | yābhiḥ | madāya | śumbhase