Sukta 9.2
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥
स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः । सोम॑: प॒वित्रे॑ अस्म॒युः ॥
samudró apsú māmṛje viṣṭámbho dharúṇo diváḥ | sómaḥ pavítre asmayúḥ ||
The ocean in the waters has become clarified; the wide-staying support, the holder of heaven—Soma, in the purifier, seeks us and draws our being toward firmness and vastness.
स॒मु॒द्रः । अ॒प्ऽसु । म॒मृ॒जे॒ । वि॒ष्ट॒म्भः । ध॒रुणः॑ । दि॒वः । सोमः॑ । प॒वित्रे॑ । अ॒स्म॒ऽयुः ॥समुद्रः । अप्सु । ममृजे । विष्टम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्मयुः ॥samudraḥ | ap-su | mamṛje | viṣṭambhaḥ | dharuṇaḥ | divaḥ | somaḥ | pavitre | asma-yuḥ