Sukta 9.2
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥
म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
mahā́ntaṃ tvā mahī́r ánv ā́po arṣanti síndhavaḥ | yád góbhir vāsayiṣyáse ||
The great waters, the mighty rivers, flow after thee, O Vast One, when thou art to be clothed with the rays of illumination—when delight is wrapped in the light-forms of knowledge.
म॒हान्त॑म् । त्वा॒ । म॒हीः । अनु॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे ॥mahāntam | tvā | mahīḥ | anu | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase