Sukta 9.16
क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा । गोषामण्वेषु सश्चिम ॥
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा । गो॒षामण्वे॑षु सश्चिम ॥
kratvā́ dákṣasya rathyám apó vásānam ándhasā | goṣā́m áṇveṣu saścima ||
By will and power of discernment he becomes the chariot-course of effective skill; clothed in the waters with his pressing-essence, he moves among the subtle tracks seeking the luminous herds of knowledge.
क्रत्वा॑ । दक्ष॑स्य । र॒थ्य॑म् । अ॒पः । वसा॑नम् । अन्ध॑सा । गो॒ऽसाम् । अण्वे॑षु । स॒श्चि॒म॒ ॥क्रत्वा । दक्षस्य । रथ्यम् । अपः । वसानम् । अन्धसा । गोसाम् । अण्वेषु । सश्चिम ॥kratvā | dakṣasya | rathyam | apaḥ | vasānam | andhasā | go-sām | aṇveṣu | saścima