Sukta 9.14
आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत । यदी गोभिर्वसायते ॥
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत । यदी॒ गोभि॑र्वसा॒यते॑ ॥
ā́d asya śuṣmíṇo rásé víśve devā́ amatsata | yadī́ góbhir vasā́yate ||
Then in the sap of this puissant one all the gods take delight, when he is clothed with the Rays (the illumining herds) and assumes his shining vesture.
आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ । यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत । यदि । गोभिः । वसायते ॥āt | asya | śuṣmiṇaḥ | rase | viśve | devāḥ | amatsata | yadi | gobhiḥ | vasāyate