Sukta 9.12
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । जिन्वन्कोशं मधुश्चुतम् ॥
प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ । जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥
prá vā́cam índur iṣyati samudrásyādhi viṣṭápi | jínvan kóśaṃ madhu-ścútam ||
The luminous Indu sends forth the inspired Word from the seat above the ocean of being; he quickens the vessel, dripping with honeyed delight, so that speech and consciousness may become abundant.
प्र । वाच॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । जिन्व॑न् । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥प्र । वाचम् । इन्दुः । इष्यति । समुद्रस्य । अधि । विष्टपि । जिन्वन् । कोशम् । मधुश्चुतम् ॥pra | vācam | induḥ | iṣyati | samudrasya | adhi | viṣṭapi | jinvan | kośam | madhu-ścutam