Sukta 9.12
दिवो नाभा विचक्षणोऽव्यो वारे महीयते । सोमो यः सुक्रतुः कविः ॥
दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते । सोमो॒ यः सु॒क्रतु॑: क॒विः ॥
divó nā́bhā vicakṣaṇó ’vyó vā́re mahīyate | sómo yáḥ sukrátuḥ kavíḥ ||
From the navel of heaven, the clear-seeing Soma is magnified in the wool-filter’s stream; he who is of right and luminous will, the seer-poet, grows great within us.
दि॒वः । नाभा॑ । वि॒ऽच॒क्ष॒णः । अव्यः॑ । वारे॑ । म॒ही॒य॒ते॒ । सोमः॑ । यः । सु॒ऽक्रतुः॑ । क॒विः ॥दिवः । नाभा । विचक्षणः । अव्यः । वारे । महीयते । सोमः । यः । सुक्रतुः । कविः ॥divaḥ | nābhā | vi-cakṣaṇaḥ | avyaḥ | vāre | mahīyate | somaḥ | yaḥ | su-kratuḥ | kaviḥ