Sukta 9.12
अभि विप्रा अनूषत गावो वत्सं न मातरः । इन्द्रं सोमस्य पीतये ॥
अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तर॑: । इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
abhí víprā anūṣata gā́vo vatsáṃ ná mā́taraḥ | índraṃ sómasya pītáye ||
The inspired seers have cried out towards him; the rays of light gather as mothers about their calf—towards Indra, for the drinking of Soma, that the illumined force may be nourished in us.
अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । गावः॑ । व॒त्सम् । न । मा॒तरः॑ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥अभि । विप्राः । अनूषत । गावः । वत्सम् । न । मातरः । इन्द्रम् । सोमस्य । पीतये ॥abhi | viprāḥ | anūṣata | gāvaḥ | vatsam | na | mātaraḥ | indram | somasya | pītaye