Sukta 9.114
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥
स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विज॑: । दे॒वा आ॑दि॒त्या ये स॒प्त तेभि॑: सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
saptá díśo nā́nā-sūryāḥ saptá hótāra ṛtvíjaḥ | devā́ ādityā́ yé saptá tébhiḥ somā́bhi rakṣa na indrā́yendo pári srava ||
Seven directions with their many suns, seven hotṛ-priests and seasonal sacrificers; the seven Ādityas—by them, O Soma, guard us on every side. O Indra’s Soma, flow around and into us.
स॒प्त । दिशः॑ । नाना॑ऽसूर्याः । स॒प्त । होता॑रः । ऋ॒त्विजः॑ । दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥सप्त । दिशः । नानासूर्याः । सप्त । होतारः । ऋत्विजः । देवाः । आदित्याः । ये । सप्त । तेभिः । सोम । अभि । रक्ष । नः । इन्द्राय । इन्दो इति । परि । स्रव ॥sapta | diśaḥ | nānāsūryāḥ | sapta | hotāraḥ | ṛtvijaḥ | devāḥ | ādityāḥ | ye | sapta | tebhiḥ | soma | abhi | rakṣa | naḥ | indrāya | indo iti | pari | srava