Sukta 9.114
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः । सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥
ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒: कश्य॑पोद्व॒र्धय॒न्गिर॑: । सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
ṛ́ṣe mantra-kṛtā́ṃ stómaiḥ káśyapod-vardháyan gíraḥ | sómaṃ namasya rā́jānaṃ yó jajñé vīrúd hāṃ pátir indrā́yendo pári srava ||
O Seer, with hymns fashioned by mantra, Kāśyapa increases the inspired utterances. Do obeisance to Soma the King, who is born as lord of the growing powers of life. O Indra’s Soma, flow around and into us.
ऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ । सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ऋषे । मन्त्रकृताम् । स्तोमैः । कश्यप । उत्वर्धयन् । गिरः । सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव ॥ṛṣe | mantra-kṛtām | stomaiḥ | kaśyapa | ut-vardhayan | giraḥ | somam | namasya | rājānam | yaḥ | jajñe | vīrudhām | patiḥ | indrāya | indo iti | pari | srava