Sukta 9.114
यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः । अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥
यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः । अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒: किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yát te rājan śṛtáṃ hávis téna somā́bhi rakṣa naḥ | arātī-vā mā nas tārīn mó ca naḥ kíṃ canā́mamat índrā́yendo pári srava ||
With that offering of thine, O King, made ready and perfected, O Soma, protect us. Let not the hostile will pass beyond us; let nothing at all overpower us. O Indra’s Soma, flow around and into us.
यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः । अरातिवा । मा । नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव ॥yat | te | rājan | śṛtam | haviḥ | tena | soma | abhi | rakṣa | naḥ | arāti-vā | mā | naḥ | tārīt | mo iti | ca | naḥ | kim | cana | āmamat | indrāya | indo iti | pari | srava