Sukta 9.114
य इन्दोः पवमानस्यानु धामान्यक्रमीत् । तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥
य इन्दो॒: पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् । तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yá indoḥ pávamānas yā́nu dhā́māny ákrāmīt | tám āhuḥ su-prajā́ íti yás te sómā́vindhan máná indrā́yendo pári srava ||
He who follows the dwellings and stations of thee, O Soma as thou art being purified—him they call ‘rich in true offspring’; for he has discovered for thee, O Soma, the mind’s right formation. O Indra’s Soma, flow around and into us.
यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् । तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑न्धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् । तम् । आहुः । सुप्रजाः । इति । यः । ते । सोम । अविन्धत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ॥yaḥ | indoḥ | pavamānasya | anu | dhāmāni | akramīt | tam | āhuḥ | su-prajāḥ | iti | yaḥ | te | soma | avindhat | manaḥ | indrāya | indo iti | pari | srava