Sukta 9.113
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yátrā́nukā́maṃ cáraṇaṃ tri-nā́ke tri-díve diváḥ | lokā́ yátra jyótiṣmántas tátra mā́m amṛ́taṃ kṛdhī́ndrā́yendo pári srava ||
Where movement follows the soul’s own will, in the triple summit, in the threefold heaven of the luminous worlds—where the realms are filled with light—there make me immortal; O Indra’s Soma, flow around and into us.
यत्र॑ । अ॒नु॒ऽका॒मम् । चर॑णम् । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । दि॒वः । लो॒काः । यत्र॑ । ज्योति॑ष्मन्तः । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत्र । अनुकामम् । चरणम् । त्रिनाके । त्रिदिवे । दिवः । लोकाः । यत्र । ज्योतिष्मन्तः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥yatra | anu-kāmam | caraṇam | tri-nāke | tri-dive | divaḥ | lokāḥ | yatra | jyotiṣmantaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava