Sukta 9.113
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः । यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yátra rājā́ vaivasvató yátrāvaródhanaṃ diváḥ | yátrāmū́r yahvatī́r ā́pas tátra mā́m amṛ́taṃ kṛdhī́ndrāyéndo pári srava ||
Where King Vaivasvata is, where the enclosure/gate of heaven is, where those mighty waters are—there make me immortal. O Indu, flow around and forth for Indra.
यत्र॑ । राजा॑ । वै॒व॒स्व॒तः । यत्र॑ । अ॒व॒ऽरोध॑नम् । दि॒वः । यत्र॑ । अ॒मूः । य॒ह्वतीः । आपः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत्र । राजा । वैवस्वतः । यत्र । अवरोधनम् । दिवः । यत्र । अमूः । यह्वतीः । आपः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥yatra | rājā | vaivasvataḥ | yatra | ava-rodhanam | divaḥ | yatra | amūḥ | yahvatīḥ | āpaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava