Sukta 9.113
यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् । स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् । स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yátra kā́mā nikāmā́ś ca yátra bradhnásya viṣṭápam | svadhā́ ca yátra tṛ́ptiś ca tátra mā́m amṛ́taṃ kṛdhī́ndrā́yendo pári srava ||
Where desires are fulfilled and the true intentions are satisfied; where is the firm seat of the Luminous One; where self-law and plenary contentment dwell—there make me immortal; O Indra’s Soma, flow around and into us.
यत्र॑ । कामाः॑ । नि॒ऽका॒माः । च॒ । यत्र॑ । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । स्व॒धा । च॒ । यत्र॑ । तृप्तिः॑ । च॒ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत्र । कामाः । निकामाः । च । यत्र । ब्रध्नस्य । विष्टपम् । स्वधा । च । यत्र । तृप्तिः । च । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥yatra | kāmāḥ | ni-kāmāḥ | ca | yatra | bradhnasya | viṣṭapam | svadhā | ca | yatra | tṛptiḥ | ca | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava