Sukta 9.113
पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् । तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् । तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
parjányavṛddhaṃ mahiṣáṃ táṃ sū́ryasya duhitā́bharat | táṃ gandharvā́ḥ práty agṛbhṇan táṃ sóme rásam ā́dadhuḥ indrāyéndo pári srava ||
Nourished by Parjanya, the great Bull—him the Daughter of the Sun brought. The Gandharvas received him in return; in Soma they placed the rasa, the sap of delight. O Indu, flow around and forth for Indra.
प॒र्जन्य॑ऽवृद्धम् । म॒हि॒षम् । तम् । सूर्य॑स्य । दु॒हि॒ता । आ । अ॒भ॒र॒त् । तम् । ग॒न्ध॒र्वाः । प्रति॑ । अ॒गृ॒भ्ण॒न् । तम् । सोमे॑ । रस॑म् । आ । अ॒द॒धुः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥पर्जन्यवृद्धम् । महिषम् । तम् । सूर्यस्य । दुहिता । आ । अभरत् । तम् । गन्धर्वाः । प्रति । अगृभ्णन् । तम् । सोमे । रसम् । आ । अदधुः । इन्द्राय । इन्दो इति । परि । स्रव ॥parjanya-vṛddham | mahiṣam | tam | sūryasya | duhitā | ā | abharat | tam | gandharvāḥ | prati | agṛbhṇan | tam | some | rasam | ā | dadhuḥ | indrāya | indo iti | pari | srava