Sukta 9.113
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुद॑: प्र॒मुद॒ आस॑ते । काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
yátrā́nandāś ca módāś ca múdaḥ pra-múda āsate | kā́masya yátrā́ptāḥ kā́mās tátra mā́m amṛ́taṃ kṛdhī́ndrā́yendo pári srava ||
Where bliss and gladness and delight and exultation take their seat; where the soul’s seeking attains its true objects—there make me immortal; O Indra’s Soma, flow around and into us.
यत्र॑ । आ॒न॒न्दाः । च॒ । मोदाः॑ । च॒ । मुदः॑ । प्र॒ऽमुदः॑ । आस॑ते । काम॑स्य । यत्र॑ । आ॒प्ताः । कामाः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥यत्र । आनन्दाः । च । मोदाः । च । मुदः । प्रमुदः । आसते । कामस्य । यत्र । आप्ताः । कामाः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥yatra | ānandāḥ | ca | modāḥ | ca | mudaḥ | pra-mudaḥ | āsate | kāmasya | yatra | āptāḥ | kāmāḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava