Sukta 9.112
जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् । कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
जर॑तीभि॒रोष॑धीभिः प॒र्णेभि॑: शकु॒नाना॑म् । का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
járatībhir óṣadhībhiḥ párṇebhiḥ śakunā́nām | kārmāró áśmabhir dyúbhir híraṇyavantam icchatī́ndrāyéndo párī srava ||
With withered herbs, with leaves, the bird-catchers pursue their aim; the smith with stones and glowing fires seeks one rich in gold. O Indu, flow around for Indra.
जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् । का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥जरतीभिः । ओषधीभिः । पर्णेभिः । शकुनानाम् । कार्मारः । अश्मभिः । द्युभिः । हिरण्यवन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥jaratībhiḥ | oṣadhībhiḥ | parṇebhiḥ | śakunānām | kārmāraḥ | aśma-bhiḥ | dyu-bhiḥ | hiraṇya-vantam | icchati | indrāya | indo iti | pari | srava