Sukta 9.112
नानानं वा उ नो धियो वि व्रतानि जनानाम् । तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् । तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
nānā́naṃ vā́ u no dhíyo ví vratā́ni jánānām | tákṣā riṣṭáṃ rutáṃ bhiṣág brahmā́ sunvántam icchatī́ndrāyéndo párī srava ||
Various indeed are our thoughts, various the ways of human beings. The carpenter seeks the broken wood, the healer seeks the ailment, the priest seeks the presser—O Indu, flow around for Indra.
ना॒ना॒नम् । वै । ऊँ॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् । तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥नानानम् । वै । ऊँ इति । नः । धियः । वि । व्रतानि । जनानाम् । तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥nānānam | vai | oṃ iti | naḥ | dhiyaḥ | vi | vratāni | janānām | takṣā | riṣṭam | rutam | bhiṣak | brahmā | sunvantam | icchati | indrāya | indo iti | pari | srava