Sukta 9.111
त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतयः । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥
त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ । प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण॑न्ति धी॒तय॑: । त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥
tváṃ tyát paṇīnā́ṃ vidó vásu sáṃ mātṛ́bhir marjayasi svá ā́ dáma ṛtásya dhītíbhiḥ dáme | parāváto ná sā́ma tád yátrā ráṇanti dhītáyaḥ | tridhā́tubhir áruṣībhir váyo dadhé rócamāno váyo dadhé ||
You find that treasure hidden by the Paṇis; with the Mothers you cleanse it in your own home—within the house of ṛta, by the acts of insight. Like a chant from afar is that place where the thoughts resound; shining, you establish the life-force by the threefold ruddy powers, you establish the life-force.
त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु॑ । सम् । मा॒तृऽभिः॑ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभिः॑ । दमे॑ । प॒रा॒ऽवतः॑ । न । साम॑ । तत् । यत्र॑ । रण॑न्ति । धी॒तयः॑ । त्रि॒धातु॑ऽभिः । अरु॑षीभिः । वयः॑ । द॒धे॒ । रोच॑मानः । वयः॑ । द॒धे॒ ॥त्वम् । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिभिः । दमे । परावतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातुभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥tvam | tyat | paṇīnām | vidaḥ | vasu | sam | mātṛ-bhiḥ | marjayasi | sve | ā | dame | ṛtasya | dhīti-bhiḥ | dame | parāvataḥ | na | sāma | tat | yatra | raṇanti | dhītayaḥ | tridhātu-bhiḥ | aruṣībhiḥ | vayaḥ | dadhe | rocamānaḥ | vayaḥ | dadhe