Sukta 9.111
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । धारा सुतस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिॠक्वभिः ॥
अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भि॒: सूरो॒ न स्व॒युग्व॑भिः । धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरि॑: । विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒ॠक्व॑भिः ॥
ayā́ rucā́ háriṇyā punānó víśvā dvéṣāṃsi tarati svayúgvabhiḥ sū́ro ná svayúgvabhiḥ | dhā́rā sutásya rocate punānó aruṣó háriḥ | víśvā yád rūpā́ pariyā́ty ṛkvábhiḥ saptā́syebhir ṛkvábhiḥ ||
By this golden light, purifying himself, he crosses beyond all hatreds with his self-yoked steeds, like the Sun with his own yoked rays. The stream of the pressed Soma shines—purifying, the ruddy-golden one. When he moves around all forms with the seers, with the seven-mouthed powers of the Word.
अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः । धारा॑ । सु॒तस्य॑ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ । विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तआ॑स्येभिः । ऋक्व॑ऽभिः ॥अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषांसि । तरति । स्वयुग्वभिः । सूरः । न । स्वयुग्वभिः । धारा । सुतस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परियाति । ऋक्वभिः । सप्तआस्येभिः । ऋक्वभिः ॥ayā | rucā | hariṇyā | punānaḥ | viśvā | dveṣāṃsi | tarati | svayugva-bhiḥ | sūraḥ | na | svayugva-bhiḥ | dhārā | sutasya | rocate | punānaḥ | aruṣaḥ | hariḥ | viśvā | yat | rūpā | pari-yāti | ṛkva-bhiḥ | sapta-āsyebhiḥ | ṛkva-bhiḥ