Sukta 9.111
पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥
पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथ॑: । अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् । वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥
pū́rvām ánu prádiśaṃ yāti cékitat sáṃ raśmíbhiḥ yatate darśató rátho daivyó darśató ráthaḥ | ágmann ukthā́ni paúṃsyéndraṃ jaitrā́ya harṣayan | vájraś ca yád bhávatho ánapa-cyutā samátsv ánapa-cyutā ||
He moves along the forward direction, clearly discerning; with his rays he is drawn together—his visible chariot, the divine visible chariot. The manly hymns came to Indra, gladdening him for victory; and the thunderbolt too—when you become unwavering in the battles, unwavering.
पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ । अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् । वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥पूर्वाम् । अनु । प्रदिशम् । याति । चेकितत् । सम् । रश्मिभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पौंस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनपच्युता । समत्सु । अनपच्युता ॥pūrvām | anu | pra-diśam | yāti | cekitat | sam | raśmi-bhiḥ | yatate | darśataḥ | rathaḥ | daivyaḥ | darśataḥ | rathaḥ | agman | ukthāni | paiṃsyā | indram | jaitrāya | harṣayan | vajraḥ | ca | yat | bhavathaḥ | anapa-cyutā | samat-su | anapa-cyutā