Sukta 9.110
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि तिष्ठसे ॥
अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ । यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥
ádha yád imé pavamāna ródasī imā́ ca víśvā bhúvanābhí majmánā | yū́the ná niṣṭhā́ vṛṣabhó ví tiṣṭhase ||
Then, O Pavamāna, when you encompass these two worlds and all the becomings by your greatness, you stand forth like the bull at the head of the herd—firmly established, manifest in your power.
अध॑ । यत् । इ॒मे इति॑ । प॒व॒मा॒न॒ । रोद॑सी॒ इति॑ । इ॒मा । च॒ । विश्वा॑ । भुव॑ना । अ॒भि । ज॒ज्मना॑ । यू॒थे । न । निः॒ऽस्थाः । वृ॒ष॒भः । वि । ति॒ष्ठ॒से॒ ॥अध । यत् । इमे इति । पवमान । रोदसी इति । इमा । च । विश्वा । भुवना । अभि । जज्मना । यूथे । न । निःस्थाः । वृषभः । वि । तिष्ठसे ॥adha | yat | ime iti | pavamāna | rodasī iti | imā | ca | viśvā | bhuvanā | abhi | jajmanā | yūthe | na | niḥ-sthāḥ | vṛṣabhaḥ | vi | tiṣṭhase