Sukta 9.110
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत । इन्द्रमभि जायमानं समस्वरन् ॥
दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत । इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥
diváḥ pīyū́ṣaṃ pūrvyáṃ yád ukthyàṃ mahó gāhā́d divá ā́ nír adhukṣata | índram abhí jā́yamānaṃ sám asvaran ||
From the heaven they have milked out the ancient nectar, that which is worthy of the hymn, from the vast depth of heaven; and as Indra is being born in us, the powers gather and sound together in affirmation.
दि॒वः । पी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ । इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒स्व॒र॒न् ॥दिवः । पीयूषम् । पूर्व्यम् । यत् । उक्थ्यम् । महः । गाहात् । दिवः । आ । निः । अधुक्षत । इन्द्रम् । अभि । जायमानम् । सम् । अस्वरन् ॥divaḥ | pīyūṣam | pūrvyam | yat | ukthyam | mahaḥ | gāhāt | divaḥ | ā | niḥ | adhukṣata | indram | abhi | jāyamānam | sam | asvaran