Sukta 9.110
सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः । सहस्रधारः शतवाज इन्दुः ॥
सोम॑: पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः । स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑: ॥
sómaḥ punānó avyáye vā́re śíśur ná krīḷán pavamāno akṣā́ḥ | sahásra-dhāraḥ śatá-vāja índuḥ ||
Soma, purifying himself in the unfailing filter, flows like a child at play, moving in his courses; the Indu becomes a thousand-streamed force, bearing a hundred plenitudes of power.
सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥सोमः । पुनानः । अव्यये । वारे । शिशुः । न । क्रीळन् । पवमानः । अक्षारिति । सहस्रधारः । शतवाजः । इन्दुः ॥somaḥ | punānaḥ | avyaye | vāre | śiśuḥ | na | krīḷan | pavamānaḥ | akṣāriti | sahasra-dhāraḥ | śata-vājaḥ | induḥ