Sukta 9.110
एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः । वाजसनिर्वरिवोविद्वयोधाः ॥
ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेन्द्रा॒येन्दु॑: पवते स्वा॒दुरू॒र्मिः । वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥
eṣá punānó mádhu-māṁ ṛtā́vā índrāyénduḥ pavate svādúr ū́rmiḥ | vāja-sánir varivo-víd váyo-dhā́ḥ ||
This Indu, purifying himself, honey-rich and a knower of the Right, flows for Indra with sweet wave; he wins plenitudes of force, finds wide spaces for the being, and sustains the life-powers.
ए॒षः । पु॒ना॒नः । मधु॑ऽमान् । ऋ॒तऽवा॑ । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः । वा॒ज॒ऽसनिः॑ । व॒रि॒वः॒ऽवित् । व॒यः॒ऽधाः ॥एषः । पुनानः । मधुमान् । ऋतवा । इन्द्राय । इन्दुः । पवते । स्वादुः । ऊर्मिः । वाजसनिः । वरिवःवित् । वयःधाः ॥eṣaḥ | punānaḥ | madhu-mān | ṛta-vā | indrāya | induḥ | pavate | svāduḥ | ūrmiḥ | vāja-saniḥ | varivaḥ-vit | vayaḥ-dhāḥ