Sukta 9.110
स पवस्व सहमानः पृतन्यून्त्सेधन्रक्षांस्यप दुर्गहाणि । स्वायुधः सासह्वान्त्सोम शत्रून् ॥
स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि । स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥
sá pavasva sáhamānaḥ pṛtanyū́n sédhan rákṣāṃsy ápa durgáhāṇi | svāyudháḥ sāsahvā́n soma śátrūn ||
Flow, O Soma, conquering the assailants; drive away the powers of distortion and the hard-to-seize obstacles. Armed with your own native might, overpower, O Soma, the enemies within.
सः । प॒व॒स्व॒ । सह॑मानः । पृ॒त॒न्यून् । सेध॑न् । रक्षां॑सि । अप॑ । दुः॒ऽगहा॑णि । सु॒ऽआ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू॑न् ॥सः । पवस्व । सहमानः । पृतन्यून् । सेधन् । रक्षांसि । अप । दुःगहाणि । सुआयुधः । ससह्वान् । सोम । शत्रून् ॥saḥ | pavasva | sahamānaḥ | pṛtanyūn | sedhan | rakṣāṃsi | apa | duḥ-gahāṇi | su-āyudhaḥ | sasahvān | soma | śatrūn