Sukta 9.109
पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥
पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥
pávasva soma dyumnī́ su-dhā́ro mahā́m avī́nām ánu pū́rvyaḥ ||
Purify thyself, O Soma, rich in luminous power, with a good stream; following the great helpers, come in thy ancient way.
पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥पवस्व । सोम । द्युम्नी । सुधारः । महाम् । अवीनाम् । अनु । पूर्व्यः ॥pavasva | soma | dyumnī | su-dhāraḥ | mahām | avīnām | anu | pūrvyaḥ