Sukta 9.109
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥
दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूष॑: स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥
divó dhartā́si śukráḥ pīyū́ṣaḥ satyé vídharman vājī́ pavasva ||
Thou art the upholder of the heaven, a radiant nectar; in the Truth, O establisher of the law, purify thyself as the bearer of plenitude of force.
दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः॑ । स॒त्ये । विऽध॑र्मन् । वा॒जी । प॒व॒स्व॒ ॥दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । विधर्मन् । वाजी । पवस्व ॥divaḥ | dhartā | asi | śukraḥ | pīyūṣaḥ | satye | vi-dharman | vājī | pavasva