Sukta 9.108
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः । वि कोशं मध्यमं युव ॥
अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः । वि कोशं॑ मध्य॒मं यु॑व ॥
abhí dyumnáṃ bṛhád yáśa íṣas-pate didī́hi deva deva-yúḥ | ví kóśaṃ madhyamáṃ yúva ||
Shine forth toward the great glory, O lord of plenitude; blaze, O god, desired by the god-seeking soul, and open wide the middle treasury within us.
अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः । वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुः । वि । कोशम् । मध्यमम् । युव ॥abhi | dyumnam | bṛhat | yaśaḥ | iṣaḥ | pate | didīhi | deva | deva-yuḥ | vi | kośam | madhyamam | yuva