Sukta 9.108
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥
आ व॑च्यस्व सुदक्ष च॒म्वो॑: सु॒तो वि॒शां वह्नि॒र्न वि॒श्पति॑: । वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धिय॑: ॥
ā vacyasva su-dakṣa camvóḥ sutó viśā́ṃ vahnír ná viśpátiḥ | vṛṣṭíṃ diváḥ pavasva rītím apā́ṃ jínvā gaviṣṭáye dhíyaḥ ||
Become expressible and manifest, O perfectly-skilled one, pressed in the bowls—like a carrying flame, like a lord of the peoples. Purify yourself into the rain of heaven, into the right flow of the waters; quicken our thoughts for the winning of the rays of Light.
आ । व॒च्य॒स्व॒ । सु॒ऽद॒क्ष॒ । च॒म्वोः॑ । सु॒तः । वि॒शाम् । वह्निः॑ । न । वि॒श्पतिः॑ । वृ॒ष्टि॑म् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व॑ । गोऽइ॑ष्टये । धियः॑ ॥आ । वच्यस्व । सुदक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपाम् । जिन्व । गोइष्टये । धियः ॥ā | vacyasva | su-dakṣa | camvoḥ | sutaḥ | viśām | vahniḥ | na | viśpatiḥ | vṛṣṭim | divaḥ | pavasva | rītim | apām | jinva | go-iṣṭaye | dhiyaḥ