Sukta 9.108
सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने । ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥
स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने । ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥
sahasrá-dhāraṃ vṛṣabháṃ payo-vṛ́dhaṃ priyáṃ devā́ya jánmane | ṛténa yá ṛtá-jāto vivāvṛdhé rājā devá ṛtáṃ bṛhát ||
The bull with a thousand streams, increaser of the soul’s milk, dear to the divine birth—he who, born of the Truth and growing by the Truth, becomes the kingly god: the vast Truth itself.
स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । प्चायः॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने । ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒वृ॒धे । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥सहस्रधारम् । वृषभम् । प्चायःवृधम् । प्रियम् । देवाय । जन्मने । ऋतेन । यः । ऋतजातः । विववृधे । राजा । देवः । ऋतम् । बृहत् ॥sahasra-dhāram | vṛṣabham | payaḥ-vṛdham | priyam | devāya | janmane | ṛtena | yaḥ | ṛta-jātaḥ | vi-vavṛdhe | rājā | devaḥ | ṛtam | bṛhat