Sukta 9.108
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् । वनक्रक्षमुदप्रुतम् ॥
आ सो॑ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुर॑म् । व॒न॒क्र॒क्षमु॑द॒प्रुत॑म् ॥
ā sotā pári siñcatā́śvaṃ ná stómaṃ apturáṃ rajastúram | vana-krakṣám udá-prutam ||
O pressers, pour it all around—this praiseful surge like a horse—swift to cross the waters, rushing through the mid-world, breaking through the thickets of the being, leaping upward beyond the lower flood.
आ । सो॒त॒ । परि॑ । सि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्ऽतुर॑म् । र॒जः॒ऽतुर॑म् । व॒न॒ऽक्र॒क्षम् । उ॒द॒ऽप्रुत॑म् ॥आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्तुरम् । रजःतुरम् । वनक्रक्षम् । उदप्रुतम् ॥ā | sota | pari | siñcata | aśvam | na | stomam | ap-turam | rajaḥ-turam | vana-krakṣam | uda-prutam