Sukta 9.108
य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा । अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥
य उ॒स्रिया॒ अप्या॑ अ॒न्तरश्म॑नो॒ निर्गा अकृ॑न्त॒दोज॑सा । अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥
ya uśriyā́ apyā̀ antár aśmáno nír gā́ akṛṇtad ójasā | abhí vrajáṃ tatniṣe gavyám aśvyáṃ varmī́va dhṛṣṇavā́ ruja ||
He who, by the force of his own might, cuts out and releases the hidden rays of light and the inner cows from within the stone of obstruction; he spreads out the luminous enclosure of plenitude—rich in light and swift energies—and like a bold battering-ram he breaks the resisting cover.
यः । उ॒स्रियाः॑ । अप्याः॑ । अ॒न्तः । अश्म॑नः । निः । गाः । अकृ॑न्तत् । ओज॑सा । अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य॑म् । अश्व्य॑म् । व॒र्मीऽइ॑व । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ ॥यः । उस्रियाः । अप्याः । अन्तः । अश्मनः । निः । गाः । अकृन्तत् । ओजसा । अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मीइव । धृष्णो इति । आ । रुज ॥yaḥ | usriyāḥ | apyāḥ | antaḥ | aśmanaḥ | niḥ | gāḥ | akṛṇtat | ojasā | abhi | vrajam | tatniṣe | gavyam | aśvyam | varmī-iva | dhṛṣṇo iti | ā | ruja