Sukta 9.108
त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयः ॥
त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः । अ॒मृ॒त॒त्वाय॑ घो॒षय॑: ॥
tváṃ hí aṅga daivyā́ pávamāna jánimāni dyumát-tamaḥ | amṛtatvā́ya ghoṣáyaḥ ||
For thou indeed, O divine Pavamāna, most full of light, proclaimest the births (the becomings) that lead to immortality.
त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः । अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥त्वम् । हि । अङ्ग । दैव्या । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । घोषयः ॥tvam | hi | aṅga | daivyā | pavamāna | janimāni | dyumat-tamaḥ | amṛta-tvāya | ghoṣayaḥ