Sukta 9.108
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विद॑: । स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥
yásya te pītvā́ vṛṣabhó vṛṣāyáte 'syá pītā́ svàr-vidaḥ | sá su-práketo abhy-àkramīd íṣo 'cchā vā́jaṃ ná étaśaḥ ||
He who, drinking of thee, becomes the Bull in his might; and by thy draught he is a finder of the Sun-worlds (svar). That man, full of clear perception, strides forward to the impulsions and to the plenitude (vāja), like Etaśa (the swift one).
यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ । सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥यस्य । ते । पीत्वा । वृषभः । वृषयते । अस्य । पीता । स्वःविदः । सः । सुप्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥yasya | te | pītvā | vṛṣabhaḥ | vṛṣa-yate | asya | pītā | svaḥ-vidaḥ | saḥ | su-praketaḥ | abhi | akramīt | iṣaḥ | accha | vājam | na | etaśaḥ