Sukta 9.108
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः ॥
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मद॑: । महि॑ द्यु॒क्षत॑मो॒ मद॑: ॥
páv asva mádhumat-tama indrā́ya soma kratuvít-tamo mádaḥ | máhi dyukṣá-tamo mádaḥ ||
Flow forth, O Soma, most honeyed, for Indra; a rapture most rich in will and discernment. A great rapture, most luminous in its shining.
पव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ । महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥पवस्व । मधुमत्तमः । इन्द्राय । सोम । क्रतुवित्तमः । मदः । महि । द्युक्षतमः । मदः ॥pavasva | madhumat-tamaḥ | indrāya | soma | kratuvit-tamaḥ | madaḥ | mahi | dyukṣa-tamaḥ | madaḥ