Sukta 9.108
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । विश्वा वसूनि बिभ्रतम् ॥
ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥
etám u tyáṃ mada-cyútaṃ sahásra-dhāraṃ vṛṣabháṃ divó duhuḥ | viśvā́ vásūni bíbhratam ||
This very one they milk from heaven—the thousand-streamed bull, dripping ecstasy—bearing within himself all riches of being.
ए॒तम् । ऊँ॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ । विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥एतम् । ऊँ इति । त्यम् । मदच्युतम् । सहस्रधारम् । वृषभम् । दिवः । दुहुः । विश्वा । वसूनि । बिभ्रतम् ॥etam | oṃ iti | tyam | mada-cyutam | sahasra-dhāram | vṛṣabham | divaḥ | duhuḥ | viśvā | vasūni | bibhratam