Sukta 9.107
सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः । त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥
सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः । त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥
sómō mīḍhvā́n pavate gātuvít-tamaḥ ṛ́ṣir vípro vi-cákṣaṇaḥ | tváṃ kavír abhavo deva-vī́tamaḥ ā́ sū́ryaṃ rohayo diví ||
Soma, rich in giving, flows—best finder of the path—seer and inspired, wide-seeing. You have become the poet, most welcome to the gods; you make the Sun mount in heaven.
सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः । त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥सोमः । मीढ्वान् । पवते । गातुवित्तमः । ऋषिः । विप्रः । विचक्षणः । त्वम् । कविः । अभवः । देववीतमः । आ । सूर्यम् । रोहयः । दिवि ॥somaḥ | mīḍhavān | pavate | gātuvit-tamaḥ | ṛṣiḥ | vipraḥ | vi-cakṣaṇaḥ | tvam | kaviḥ | abhavaḥ | deva-vītamaḥ | ā | sūryam | rohayaḥ | divi