Sukta 9.107
पुनानः सोम जागृविरव्यो वारे परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥
पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥
punānáḥ soma jā́gṛvir avyó vā́re pári priyáḥ | tváṃ vípro abhavo aṅgíras-tamo mádhvā yajñáṃ mimikṣa naḥ ||
Purifying yourself, O Soma, wakeful and dear, you move around in the woolen filter. You have become the seer, most Angiras-like; with your sweetness mingle and enrich our sacrifice.
पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः । त्वम् । विप्रः । अभवः । अङ्गिरःतमः । मध्वा । यज्ञम् । मिमिक्ष । नः ॥punānaḥ | soma | jāgṛviḥ | avyaḥ | vāre | pari | priyaḥ | tvam | vipraḥ | abhavaḥ | aṅgiraḥ-tamaḥ | madhvā | yajñam | mimikṣa | naḥ