Sukta 9.107
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥
दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् । आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥
duhāná ū́dhar divyáṃ mádhu priyáṃ pratnáṃ sadhástham ā́sadat | āpṛ́cchyaṃ dharúṇaṃ vājī́ arṣati nṛ́bhir dhūtó vi-cákṣaṇaḥ ||
Milking the heavenly udder—the dear honey—he has reached the ancient seat of union. Seeking the firm foundation, the impelling force flows on, purified by the human powers, wide-seeing in discernment.
दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् । आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । आ । असदत् । आपृच्छ्यम् । धरुणम् । वाजी । अर्षति । नृभिः । धूतः । विचक्षणः ॥duhānaḥ | ūdhaḥ | divyam | madhu | priyam | pratnam | sadha-stham | ā | asadat | āpṛcchyam | dharuṇam | vājī | arṣati | nṛ-bhiḥ | dhūtaḥ | vi-cakṣaṇaḥ